फॉलो करें

गंभीरा में संस्कृत संभाषण शिविर का समापन

59 Views
अद्य २०-०७-२०२२ दिनाङ्के करिमगञ्ज-जनपदस्य गम्भीरा-चा-बागान-आदर्शविद्यालये दशदिवसीय-संस्कृत-सम्भाषण-शिविरस्य समापन-समारोहः अनुष्ठितः अभवत्। विगते ११जुलाईतः एतत् शिविरं चलत् आसीत्। प्रतिदिनं ११वादनतः १वादनपर्यन्तं चलति स्म। बहु सरलतया प्रत्यक्षपद्धत्या नित्यव्यवहार्य-वस्तुप्रदर्शन-माध्यमेन दशदिनं यावत् सरलेन संस्कृतेन कथोपकथनद्वारा एवशिविरं प्रचलति स्म। शिविरे शिक्षकरूपेण आसन् नन्दिता देवनाथः, प्रिया देवनाथः, रुबि देवनाथः , अर्जुन नाथः च। अद्यतन-अनुष्ठाने सभापतित्वं कृतवान् विद्यालय-परिचालन-समितेः सभापतिः तथा च लालछडा-ग्राम-पञ्चायतस्य सभापतिः श्रीयुक्तः सञ्जयकुमार-गोस्वामी महोदयः। अनुष्ठानपरिचालनायाः दायित्वे आसीत् अस्य विद्यालयस्य शिक्षकः तथा च संस्कृतभारत्याः दक्षिण-असम-प्रान्तमन्त्री श्रीमान् अर्जुन-नाथः महोदयः। प्रथमं मन्त्रेण सह प्रदीपप्रज्ज्वलनमाध्यमेन अनुष्ठानस्य शुभारम्भः जातः। ततःपरं छात्राः मिलित्वा सरस्वतीवन्दनां कृतवन्तः।सरलसंस्कृतभाषया लघु लघु वार्तालापस्य प्रदर्शन-माध्यमेन अनुष्ठानं प्रचलत् आसीत्। अनुष्ठाने मुख्यवक्तृरूपेण उपस्थितः आसीत् लक्ष्मीनगर-चा-बागान-आदर्शविद्यालयस्य शिक्षकः तथा च राष्ट्रीय-स्वयंसेवक-सङ्घस्य जिला-पर्यावरण-प्रमुखः श्रीमान् अनुपम-नाथः महोदयः। सः अत्यन्तसुन्दरतया सरलसंस्कृतभाषया तस्य वक्तव्यम् उपस्थापितवान्। छात्रान् प्रति उक्तवान् यत् संस्कृतभाषा अत्यन्तसरला समृद्धा च भाषा अस्ति। सा भाषा एव आदिभाषा, किन्तु अधुना मृतप्राया जायमाना अस्ति। अतः एतां भाषां रक्षयितुं छात्रैः संस्कृतेन सम्भाषणं करणीयम्, संस्कृतेन चर्चा करणीया। सभापतिमहोदयः तस्य भाषणे दशदिनस्य एतस्मिन् शिविरे छात्रां सम्यक् भाषाशिक्षणं प्राप्तवन्तः इति कारणेन शिविरशिक्षकान् हार्दं धन्यवादं ज्ञापितवान् तथा च छात्राणां संस्कृतचर्चायाम् उत्साहवर्धनाय प्रत्येकम् एकामेकां लेखनीं टीप्पनीपुस्तिकां च उपहारस्वरूपं दत्तवान्। सभायाम् अन्येऽपि विशिष्ठाः अतिथयः उपस्थिताः आसन् , यथा- तेषु विशिष्ठसमाजसेवी श्रीजयकिशोर-कोइरीमहोदयः, विशिष्ठशिक्षकः श्रीचन्दन-त्रिपाठी महोदयः, शिक्षकः केशव-दीक्षीतः महोदयः(काछाडतः), अस्य विद्यालयस्य प्राचार्यः श्रीब्रजेश-पाण्डे महाभागः च। अन्ते अस्य विद्यालयस्य शिक्षकः श्रीकनक-दासमहोदयः सर्वेषां कृते धन्यवादज्ञापनं कृतवान्।ततःपरं कल्याणमन्त्र-माध्यमेन सभायाः समाप्तिः अभवत्।

Share this post:

Leave a Comment

खबरें और भी हैं...

लाइव क्रिकट स्कोर

कोरोना अपडेट

Weather Data Source: Wetter Indien 7 tage

राशिफल